|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.47. अध्यायः 047
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-47-0x(4371)(46639)
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्।
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपराजितम्॥ 7-47-1(46640)
आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः।
प्लवमानमिवाकाशे के शूराः समवारयन्॥ 7-47-2(46641)
सञ्जय उवाच। 7-47-3x(4372)
अभिमन्युः प्रविश्यैतांस्तावकान्निशितैः शरैः।
अकरोत्पार्थिवान्सर्वान्विमुखान्पाण्डुनन्दनः॥ 7-47-3(46642)
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्॥ 7-47-4(46643)
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्॥ 7-47-5(46644)
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः।
तालमात्राणि चापानि विकर्षन्तो महाबलाः॥ 7-47-6(46645)
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्।
व्यदृष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा॥ 7-47-7(46646)
द्रोणं पञ्चाशताविध्यद्विंशत्या च बृहद्बलम्।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः॥ 7-47-8(46647)
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः।
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः॥ 7-47-9(46648)
कर्णं च कर्णिना कर्णे पीतेन च शितेन च।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा॥ 7-47-10(46649)
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी।
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे॥ 7-47-11(46650)
ततो बृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्।
पुत्राणां तव वीराणां पश्यतामवधीद्बली॥ 7-47-12(46651)
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
वरंवरममित्राणामारुजन्तमभीतवत्॥ 7-47-13(46652)
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः॥ 7-47-14(46653)
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः।
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्॥ 7-47-15(46654)
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्घैरजिह्मगैः।
प्रत्यविध्यन्महातेजा बलवानपकारिणम्॥ 7-47-16(46655)
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्।
अश्वत्थामा तथाऽष्टौ च परीप्सन्पितरं रणे॥ 7-47-17(46656)
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा च विंशतिम्।
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश॥ 7-47-18(46657)
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः॥ 7-47-19(46658)
तं कोसलानामधिपः कर्णिनाऽताडयद्धृदि।
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ॥ 7-47-20(46659)
अथ कोसलराजस्तु विरथः खङ्ग्रचर्मधृत्।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्॥ 7-47-21(46660)
स कोसलानामधिपं राजपुत्रं बृहद्बलम्।
हृदि विव्याध वाणेन स भिन्नहृदयोऽपतत्॥ 7-47-22(46661)
बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम्।
सृजतामशिवा वाचः खङ्गकार्मुकधारिणाम्॥ 7-47-23(46662)
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे।
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः॥ ॥ 7-47-24(46663)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रोयदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः॥ 47 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|